- तत्पर्य्यायः -
कुमारी २ तरणिः ३ सहा ४ । इति शब्दरत्नावली ॥
कन्यका ५ दीर्घपत्रिका ६ स्थलेरुहा ७ मृदुः ८ कन्या ९ बहुपत्रा १० अमरा ११ अजरा १२ कण्टकप्रावृता
१३ वीरा १४ भृङ्गेष्टा १५ विपुलास्रवा १६ ब्रह्मघ्नी १७ तरुणी १८ रामा १९ कपिला २० अम्बुधिस्रवा
२१ सुकण्टका २२ स्थूलदला २३ गृहकन्या २४ । इति शब्दकल्पद्रुमः ॥
- अस्या गुणाः-
इति राजनिर्घण्टः ॥
भेदकत्वम् । नेत्रहितत्वम् । मधुरत्वम् । बृंहणत्वम् । शुक्रबलकारित्वम् । वातगुल्मप्लीहयकृत्वृद्धिज्वरग्रन्थ्यग्निदग्धविस्फोट-
पित्तरक्तत्वग्रोगनाशित्वञ्च ।
इति भावप्रकाशः ॥