Friday 28 November 2014

अजरा - घृतकुमारी |


  • तत्पर्य्यायः - 

कुमारी २ तरणिः ३ सहा ४ । इति शब्दरत्नावली ॥
कन्यका ५ दीर्घपत्रिका ६ स्थलेरुहा ७ मृदुः ८ कन्या ९ बहुपत्रा १० अमरा ११ अजरा १२ कण्टकप्रावृता 

१३ वीरा १४ भृङ्गेष्टा १५ विपुलास्रवा १६ ब्रह्मघ्नी १७ तरुणी १८ रामा १९ कपिला २० अम्बुधिस्रवा 
२१ सुकण्टका २२ स्थूलदला २३ गृहकन्या २४ । इति शब्दकल्पद्रुमः 

  • अस्या गुणाः-
हिमत्वम् । तिक्तत्वम् । मदगन्धित्वम् । कफपित्तकासविषश्वासकुष्ठनाशित्वम् । रसायनत्वञ्च ।
इति राजनिर्घण्टः ॥


 भेदकत्वम् । नेत्रहितत्वम् । मधुरत्वम् । बृंहणत्वम् । शुक्रबलकारित्वम् । वातगुल्मप्लीहयकृत्वृद्धिज्वरग्रन्थ्यग्निदग्धविस्फोट-
पित्तरक्तत्वग्रोगनाशित्वञ्च । 
इति भावप्रकाशः ॥