Wednesday 24 February 2021

खदिरः


Botanical Name: Acacia catechu Linn.
संस्कृत: रक्तसारः     
हिंदी:  खैर, दन्तधावन      
मराठी:  खैर    
====================
भावप्रकाशे पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरणे वटादिवर्गे -

खदिरो रक्तसारश्च गायत्री दन्तधावनः |
कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः |
खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् |
तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् |
श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ||भा. प्र. पू. मिश्र. ६ .२७||
श्वेत खदिर-
खदिरः श्वेतसारोऽन्यः कदरः सोमवल्कलः |
कदरो विशदो वर्ण्यो मुखरोगकफास्रजित् ||भा. प्र. पू. मिश्र. ६ .२८ |
=================
चरकसंहितायां षड्विरेचनशताश्रितीयाध्याये -

तिन्दुक-प्रियाल-बदर-खदिर-कदर-सप्तपर्णाश्वकर्णार्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भवन्ति || च. सू. ४ / १७ ||
===================
सुश्रुतसंहितायाम् अर्शश्चिकित्सायाम् -

यथा सर्वाणि कुष्ठानि हतः खदिरबीजकौ |
तथैवार्शांसि सर्वाणि वृक्षकारुष्करौ हतः ||सु. चि. ६ .१९||
====================

 


No comments:

Post a Comment